वांछित मन्त्र चुनें

शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः । अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥

अंग्रेज़ी लिप्यंतरण

śucī te cakre yātyā vyāno akṣa āhataḥ | ano manasmayaṁ sūryārohat prayatī patim ||

पद पाठ

शुची॑ । ते॒ । च॒क्रे इति॑ । या॒त्याः । वि॒ऽआ॒नः । अक्षः॑ । आऽह॑तः । अनः॑ । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥ १०.८५.१२

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:12 | अष्टक:8» अध्याय:3» वर्ग:22» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यात्याः) पतिगृह को जाती हुई के (ते) तेरे (शुची चक्रे) मनोरूप रथ के जो चक्र श्रोत्र हैं, वे पवित्र हैं, उनसे शास्त्रवचन को जैसे सुने, वैसे पति के वचनों को सुने (अक्षः-व्यानः-आहतः) उस रथ का अक्षदण्ड शुभ गुणकर्मस्वभाव प्राप्त करानेवाला विचार आस्थित है (मनस्मयम्-अनः) मन रूप रथ है (सूर्या पतिं प्रयती रोहत्) तेजस्विनी वधू पति की ओर जाती हुई उस पर बैठती है ॥१२॥।
भावार्थभाषाः - तेजस्विनी नव वधू पति के प्रति अपने मन को लगावे, श्रोत्रों से उसके वचन सुने, शुभ गुणकर्मस्वभावपूर्ण विचार किया करे, तो गृहस्थाश्रम सफल हो ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यात्याः-ते शुची चक्रे) पतिगृहं गच्छन्त्यास्तव मनोरथस्य ये चक्रे श्रोत्रे ते पवित्रे स्तः, यतः शास्त्रं श्रोतुं योग्ये तथा पतिवचनं श्रोतुं योग्ये भवेतां श्रुत्वा च मनोरथं चालय (अक्षः-व्यानः-आहतः) तद्रथस्य चक्रयोरक्षः-अक्षदण्डो व्यानः शुभगुणकर्मस्वभावप्रापक-विचारः “व्यानाय व्यानिति सर्वान् शुभकर्मस्वभावान् येन तस्मै” [यजु० १३।२४ दयानन्दः] आस्थितोऽस्ति (मनस्मयम्-अनः) यत् खलु मनोरूपं शकटमस्ति (सूर्या पतिं प्रयती रोहत्) तेजस्विनी वधूः पतिं प्रगच्छन्ती सती शकटं रोहति ॥१२॥